(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.11. अध्यायः 011
Mahabharata - Bhishma Parva - Chapter Topics
शाकद्वीपवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-11-0x(3978)(39026)
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय।
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥ 6-11-1(39027)
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् ।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥ 6-11-2(39028)
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ 6-11-3(39029)
सञ्जय उवाच। 6-11-4x(3979)
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥ 6-11-4(39030)
अष्टादश सहस्राणि योजनानि विशांपते।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ 6-11-5(39031)
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ 6-11-6(39032)
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः।
सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ 6-11-7(39033)
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ 6-11-8(39034)
जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप ।
विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ 6-11-9(39035)
क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः ।
तत्र पुण्या जनपदास्तत्र न म्रियते जनः।
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ 6-11-10(39036)
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ।
उक्त एष महाराज किमन्यत्कथयामि ते ॥ 6-11-11(39037)
धृतराष्ट्र उवाच। 6-11-12x(3980)
शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय ।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ 6-11-12(39038)
सञ्जय उवाच। 6-11-13x(3981)
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ 6-11-13(39039)
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ 6-11-14(39040)
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतो महाराज मलयो नाम पर्वतः ॥ 6-11-15(39041)
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ।
ततः परेण कौरव्य जलधारो महागिरिः ॥ 6-11-16(39042)
ततो नित्युमुपादत्ते वासवः परमं जलम्।
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥ 6-11-17(39043)
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ 6-11-18(39044)
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ 6-11-19(39045)
धृतराष्ट्र उवाच। 6-11-20x(3982)
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया।
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥ 6-11-20(39046)
सञ्जय उवाच। 6-11-21x(3983)
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन।
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ॥ 6-11-21(39047)
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः 6-11-22(39048)
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।
केसरः केसरयुतो यतो वातः प्रवर्तते ॥ 6-11-23(39049)
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः।
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥ 6-11-24(39050)
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारो महाराज सुकुमार इति स्मृतः ॥ 6-11-25(39051)
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ।
केसरस्याथ मौदाकी परेण तु महापुमान् ॥ 6-11-26(39052)
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च।
जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः ॥ 6-11-27(39053)
शाको नाम महाराज प्रजा तस्य सदानुगा।
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ 6-11-28(39054)
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च।
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ 6-11-29(39055)
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ 6-11-30(39056)
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥ 6-11-31(39057)
सुकुमारी कुमारी च शीताशी वेणिका तथा।
महानदी च कौरव्य तथा मणिजला नदी ॥ 6-11-32(39058)
चक्षुर्वर्धनिका चैव नदी भरतसत्तम ।
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥ 6-11-33(39059)
सहस्राणां शतान्येव यतो वर्षति वासवः ।
न तासां नामधेयानि परिमाणं तथैव च ॥ 6-11-34(39060)
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ।
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ॥ 6-11-35(39061)
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा ।
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥ 6-11-36(39062)
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः ।
मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥ 6-11-37(39063)
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥ 6-11-38(39064)
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ 6-11-39(39065)
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥ ॥ 6-11-40(39066)

इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि एकादशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-11-4 ग्रहं राहुम् ॥ 6-11-5 पर्वताकृतित्वाज्जम्बुपर्वत इत्युच्यते ॥ 6-11-6 क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः तेन समुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः। द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः। एवं तृतीयोऽशीतिसहस्रः। चतुर्थः षष्टिसहस्राधिकं लक्षम्। पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषङ्कं चत्वारिंशत्सहस्राणि। सप्तमो द्वादशलक्षाण्यशीतिसहस्राणि। एतेषां संकलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत्सहस्राणि योजनानि सप्तानां द्वीपानां समुद्राणं विस्तारः॥ 6-11-18 रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणापि दिव्येन रूपेणात्रापि वर्तते एव । विधिर्मर्यादा पितामहेन कृता ॥ 6-11-21 पतगवर्णं व्याचष्टे तमोरिति। मिश्रोवर्णः पतग इत्यर्थः ॥ 6-11-22 यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.